श्यामा

सुधाव्याख्या

श्यामेति । श्यामो वर्णोऽस्त्यस्याः । अर्शआदिः (५.२.१२७) । ‘श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णाहरितो: पुंसि स्यात्तद्वति त्रिषु । मरिचे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियंगावपि वल्गुलौ । यमुनायां त्रियामायां कृष्णत्रिवृतिकोषधौ' । (नीलिकायाम्) ॥