कुबेराक्षी

सुधाव्याख्या

कुबेरस्येवाक्षि यस्याः । ‘अक्ष्णोऽदर्शनात्' (५.४.७६) इत्यच् । गौरादिः (४.१.४१) । मुकुटस्तु - बहुव्रीहौ सक्थि-' (५.४.११३) इत्यादिना षच् – इत्याह । तन्न । अस्वाङ्गत्वात् वृक्षस्याप्राणित्वात् ।


प्रक्रिया