अमरकोशः


श्लोकः

तिलकः क्षुरकः श्रीमान् समौ पिचुलझावुकौ । श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ । ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तिलक तिलकः पुंलिङ्गः क्वुन् उणादिः अकारान्तः
2 क्षुरक क्षुरकः पुंलिङ्गः क्वुन् उणादिः अकारान्तः
3 श्रीमत् श्रीमान् पुंलिङ्गः मतुप् तद्धितः तकारान्तः
4 पिचुल पिचुलः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
5 झावुक झावुकः पुंलिङ्गः कन् तद्धितः अकारान्तः
6 श्रीपर्णिका श्रीपर्णिका स्त्रीलिङ्गः बहुव्रीहिः समासः आकारान्तः
7 कुमुदिका कुमुदिका स्त्रीलिङ्गः कन् तद्धितः आकारान्तः
8 कुम्भी कुम्भी स्त्रीलिङ्गः ईकारान्तः
9 कैटर्य कैटर्यः पुंलिङ्गः ष्यञ् तद्धितः अकारान्तः
10 कट्फल कट्फलः पुंलिङ्गः कट् फलमस्य । बहुव्रीहिः समासः अकारान्तः