झावुकः

सुधाव्याख्या

‘झा' इति शब्दं वेति गच्छति । ‘वी गत्यादिषु' (अ० प० अ०) । मितद्र्वादित्वात् (वा० ३.२.१८०) डुः। ततः ‘संज्ञायां कन्’ (५.३.७५) ॥


प्रक्रिया

धातुः - वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु


झा + अम् + वी + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।, उपपदमतिङ् 2.2.19
झा + वी + डु - सुपो धातुप्रातिपदिकयोः 2.4.71
झा + वी + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
झा + व् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
झावु + सु + कन् - संज्ञायां कन् 5.3.75
झावु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
झावु + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
झावुक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
झावुक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झावुक + रु - ससजुषो रुः 8.2.66
झावुक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झावुकः - खरवसानयोर्विसर्जनीयः 8.3.15