कैटर्यः

सुधाव्याख्या

केटनम् । किट त्रासे' (भ्वा० प० से०) । घञ् (३.३.१८) । केटं राति अतितिक्तत्वात् चतुर्वर्णादित्वात् (वा० ५.१.१२४) ष्यन् ॥


प्रक्रिया

धातुः - किटँ त्रासे , रा दाने


किटँ त्रासे
किट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किट् + घञ् - भावे 3.3.18
किट् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
केट - पुगन्तलघूपधस्य च 7.3.86
रा दाने
केट + अम् + रा + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
केट + रा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
केट + रा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
केट + र् + अ - आतो लोप इटि च 6.4.64
केटर + सु + ष्यञ् - चतुर्वर्णादीनां स्वार्थ उपसंख्यानम् (5.1.124) । वार्तिकम् ।
केटर + ष्यञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
केटर + य - षः प्रत्ययस्य 1.3.6, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
केटर् + य - यस्येति च 6.4.148
कैटर् + य - तद्धितेष्वचामादेः 7.2.117
कैटर्य + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कैटर्य + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैटर्य + रु - ससजुषो रुः 8.2.66
कैटर्य + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कैटर्यः - खरवसानयोर्विसर्जनीयः 8.3.15