कुमुदिका

सुधाव्याख्या

कौ मोदते । ‘मुदी हर्षे' (भ्वा० आ० से०) । ‘इगुपध-' (३.१.१३५) इति कः । स्वार्थे कन् (५.३.७५) । ‘कुमुदं कैरवे रक्तपद्ये स्त्री कुम्भिकौषधौ । गंभार्यां पुंसि दिङ्नागे नागशाखामृगान्तरे' ॥


प्रक्रिया

धातुः - मुदँ हर्षे


मुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कु + ङि + मुद् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135, उपपदमतिङ् 2.2.19
कु + मुद् + क - सुपो धातुप्रातिपदिकयोः 2.4.71
कु + मुद् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुमुद + सु + कन् - संज्ञायां कन् 5.3.75
कुमुद + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कुमुद + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कुमुदक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कुमुदक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कुमुदका - अकः सवर्णे दीर्घः 6.1.101
कुमुदका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कुमुदका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुमुदका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
कुमुदिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44