श्रीपर्णिका

सुधाव्याख्या

श्रीति । श्री: पर्णेषु यस्याः । ‘पाककर्णपर्ण-' (४.१.६४) इति ङीप् । स्वार्थे कन् (५.३.७५) । ‘श्रीपर्णी काश्मरीकुम्भ्योः क्लीबे पद्याग्निमन्थयो:' ॥


प्रक्रिया

श्री + सु + पर्ण + सुप् - अनेकमन्यपदार्थे 2.2.24
श्री + पर्ण - सुपो धातुप्रातिपदिकयोः 2.4.71
श्रीपर्ण + ङीप् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
श्रीपर्ण + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
श्रीपर्ण् + ई - यस्येति च 6.4.148
श्रीपर्णी + सु + कन् - शेषाद्विभाषा 5.4.154
श्रीपर्णी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
श्रीपर्णी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
श्रीपर्णिक - केऽणः 7.4.13
श्रीपर्णिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
श्रीपर्णिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
श्रीपर्णिका - अकः सवर्णे दीर्घः 6.1.101
श्रीपर्णिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रीपर्णिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
श्रीपर्णिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68