अमरकोशः


श्लोकः

बला वाट्यालको घण्टारवा तु शणपुष्पिका । मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बला बला स्त्रीलिङ्गः बलति । अच् कृत् आकारान्तः
2 वाट्यालक वाट्यालकः पुंलिङ्गः वाटीमलति । तत्पुरुषः समासः अकारान्तः
3 घण्टारवा घण्टारवा स्त्रीलिङ्गः घण्टेवारौति । तत्पुरुषः समासः आकारान्तः
4 शणपुष्पिका शणपुष्पिका स्त्रीलिङ्गः शण: पुष्पं यस्याः । बहुव्रीहिः समासः आकारान्तः
5 मृद्वीका मृद्वीका स्त्रीलिङ्गः मृद्नाति । निपातनम् आकारान्तः
6 गोस्तनी गोस्तनी स्त्रीलिङ्गः गौः स्तनोऽस्याः । बहुव्रीहिः समासः ईकारान्तः
7 द्राक्षा द्राक्षा स्त्रीलिङ्गः द्राङ्क्ष्यते । घञ् कृत् आकारान्तः
8 स्वाद्वी स्वाद्वी स्त्रीलिङ्गः स्वद्यते । उण् उणादिः ईकारान्तः
9 मधुरसा मधुरसा स्त्रीलिङ्गः मधू रसोऽस्याः । बहुव्रीहिः समासः आकारान्तः