शणपुष्पिका

सुधाव्याख्या

शण: पुष्पं यस्याः । शणशब्दस्तत्पुष्पसदृशे लाक्षणिकः । ‘पाककर्ण-' (४.१.६४) इति ङीष् । स्वार्थे कन् (५.३.७५) ॥


प्रक्रिया

शण + सु + पुष्प + सु - अनेकमन्यपदार्थे 2.2.24
शणपुष्प - सुपो धातुप्रातिपदिकयोः 2.4.71
शणपुष्प + ङीप् - पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64
शणपुष्प + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शणपुष्प् + ई - यस्येति च 6.4.148
शणपुष्पी + सु + कन् - संज्ञायां कन् 5.3.75
शणपुष्पी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
शणपुष्पी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
शणपुष्पिक - केऽणः 7.4.13
शणपुष्पिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4](https://ashtadhyayi.com/sutraani/4/1/4)
शणपुष्पिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
शणपुष्पिका - अकः सवर्णे दीर्घः 6.1.101
शणपुष्पिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शणपुष्पिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शणपुष्पिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68