बला

सुधाव्याख्या

बेति । बलति । ‘वल संवरणे' (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । बलमस्त्यस्याः इति वा । अर्शआद्यच् (५.२.११५) । ‘बलयुक्तेऽन्यलिङ्गः स्याद्वला वाट्यालके स्त्रियाम्' (इति मेदिनी) ॥