वाट्यालकः

सुधाव्याख्या

वाटीमलति । ‘अल भूषणादौ (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । स्वार्थे कन् (५.३.७५) । वाट्या आलकः ॥


प्रक्रिया

धातुः - अलँ भूषणपर्याप्तिवारणेषु


अल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाटि + अम् + अल् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
वाटि + अल् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
वाटि + अल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वाटि + आल - अत उपधायाः 7.2.116
वाट्याल - इको यणचि 6.1.77
वाट्याल + सु + कन् - संज्ञायां कन् 5.3.75
वाट्याल + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
वाट्याल + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वाट्यालक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वाट्यालक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाट्यालक + रु - ससजुषो रुः 8.2.66
वाट्यालक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वाट्यालकः - खरवसानयोर्विसर्जनीयः 8.3.15