घण्टारवा

सुधाव्याख्या

घण्टेति । घण्टेवारौति । अच् (३.१.१३४) ॥


प्रक्रिया

धातुः - रु शब्दे


घण्टा + सु + आङ् + रु + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
घण्टा + आङ् + रु + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
घण्टा + आ + रु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
घण्टा + आ + रो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
घण्टा + आ + रव् + अ - एचोऽयवायावः 6.1.78
घण्टारव - अकः सवर्णे दीर्घः 6.1.101
घण्टारव + टाप् - अजाद्यतष्टाप्‌ 4.1.4
घण्टारव + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
घण्टारवा - अकः सवर्णे दीर्घः 6.1.101
घण्टारवा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
घण्टारवा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
घण्टारवा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68