अमरकोशः


श्लोकः

शालेय: स्याच्छीतशिवछत्रा मधुरिका मिसिः । मिश्रेयोऽप्यथ सीहुण्डो वज्रद्रुः स्नुक्स्नुही गुडा ॥ १०५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शालेय शालेयः पुंलिङ्गः शालीनां भवनं क्षेत्रं शालेयम् । अच् तद्धितः अकारान्तः
2 शीतशिव शीतशिवः पुंलिङ्गः शीतश्चासौ शिवश्च । तत्पुरुषः समासः अकारान्तः
3 छत्त्रा छत्त्रा स्त्रीलिङ्गः छत्रमस्यास्ति । ष्ट्रन् उणादिः आकारान्तः
4 मधुरिका मधुरिका स्त्रीलिङ्गः मधुरो रसोऽस्त्यस्याः । अच् तद्धितः आकारान्तः
5 मिसि मिसिः स्त्रीलिङ्गः मस्यते । इन् उणादिः इकारान्तः
6 मिश्रेय मिश्रेयः पुंलिङ्गः मिश्रयति । तत्पुरुषः समासः अकारान्तः
7 सीहुण्ड सीहुण्डः पुंलिङ्गः ‘सी’ इति हुण्डते । तत्पुरुषः समासः अकारान्तः
8 वज्रद्रु वज्रद्रुः पुंलिङ्गः वज्रनामा द्रुः तत्पुरुषः समासः उकारान्तः
9 स्नुह् स्नुक् स्त्रीलिङ्गः स्नुह्यति । क्विप् कृत् हकारान्तः
10 स्नुही स्नुही स्त्रीलिङ्गः स्नुह्यति । इन् उणादिः ईकारान्तः
11 गुडा गुडा स्त्रीलिङ्गः गुडति । कृत् आकारान्तः