मधुरिका

सुधाव्याख्या

मधुरो रसोऽस्त्यस्याः । अच् (५.२.११५) । ‘मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः । मधुकुक्कुटिकामेदामधूलीयष्टिकासु च । क्लीबं विसे पुंसि रसे तद्वत्स्वादुप्रियेऽन्यवत्’ (इति मेदिनी) ॥


प्रक्रिया

मधुर + सु + अच् - अत इनिठनौ 5.2.115
मधुर + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
मधुर + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मधुर् + अ - यस्येति च 6.4.148
मधुर + सु + कन् - संज्ञायां कन् 5.3.75
मधुर + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
मधुर + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मधुरक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मधुरक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मधुरका - अकः सवर्णे दीर्घः 6.1.101
मधुरका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मधुरका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मधुरका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मधुरिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44