मिसिः

सुधाव्याख्या

मस्यते । ‘मसी परिमाणे' (दि० प० से०) । इन् (उ० ४.११८) । बाहुलकादत इः । ‘स्यान्मांस्यां शतपुष्पायां मधुरायां मिसिः स्त्रियाम्' इति दन्त्यान्ते रभसः । 'मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयो:' (इति मेदिनी) ॥ सोमनन्दी तु 'मिशी' ‘मिशिः' इति तालव्यान्ते आह । मि(मे)शति । ‘मिश शब्दे' (भ्वा० प० से०) । ‘इगुपधात् कित्' (उ० ४.१२०) इति इन् ङीष् (ग० ४.१.४५) वा ॥