सीहुण्डः

सुधाव्याख्या

अथेति । ‘सी’ इति हुण्डते । ‘हुडि वरणे' (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । -सिंहतुण्डस्यापभ्रंशोऽयम् इति स्वामी । पृषोदरादिः । 'वज्रद्रुमः सिहुण्डोऽथ' इति रभसाद्ध्रस्वादिरपि ॥


प्रक्रिया

धातुः - हुडिँ वरणे हरणे च


हुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हु नुम् ड् - इदितो नुम् धातोः 7.1.58
हु न् ड् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हुंड् - नश्चापदान्तस्य झलि 8.3.24
हुण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
सी + सु + हुण्ड् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
सी + हुण्ड् + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
सी + हुण्ड् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सीहुण्ड + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सीहुण्ड + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सीहुण्ड + रु - ससजुषो रुः 8.2.66
सीहुण्ड + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सीहुण्डः - खरवसानयोर्विसर्जनीयः 8.3.15