मिश्रेयः

सुधाव्याख्या

मिश्रयति । अच् (३.१.१३४) । ईयते । ‘इण् गतौ' (अ० प० अ०) । ‘अचो यत्' (३.१.९७) । मिश्रा चासावेया च । शकन्ध्वादिः (वा० ६.१.९४) ॥


प्रक्रिया

धातुः - मिश्र सम्पर्के , इण् गतौ


मिश्र सम्पर्के
मिश्र + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
मिश्र + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मिश्र - अतो गुणे 6.1.97
इण् गतौ
- हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इ + यत् - अचो यत्‌ 3.1.97
इ + य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
एय - सार्वधातुकार्धधातुकयोः 7.3.84
मिश्र + सु + एय + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
मिश्र + एय - सुपो धातुप्रातिपदिकयोः 2.4.71
मिश्रेय - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
मिश्रेय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मिश्रेय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिश्रेय + रु - ससजुषो रुः 8.2.66
मिश्रेय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मिश्रेयः - खरवसानयोर्विसर्जनीयः 8.3.15