अमरकोशः


श्लोकः

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका । वृषोऽटरूष: सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हैमवती हैमवती स्त्रीलिङ्गः हिमवति भवा । अण् तद्धितः ईकारान्तः
2 वैद्यमातृ वैद्यमाता स्त्रीलिङ्गः वैद्यस्य मातेव ॥ तत्पुरुषः समासः ऋकारान्तः
3 सिंही सिंही स्त्रीलिङ्गः हिनस्ति । अच् कृत् ईकारान्तः
4 वाशिका वाशिका स्त्रीलिङ्गः वाश्यते । कृत् आकारान्तः
5 वृष वृषः पुंलिङ्गः वर्षति मधु । कृत् अकारान्तः
6 अटरुष अटरुषः पुंलिङ्गः अटान् गच्छतो रोषति । तत्पुरुषः समासः अकारान्तः
7 सिंहास्य सिंहास्यः पुंलिङ्गः सिंह आस्यमस्य । बहुव्रीहिः समासः अकारान्तः
8 वासक वासकः पुंलिङ्गः वासयति ण्वुल् कृत् अकारान्तः
9 वाजिदन्तक वाजिदन्तकः पुंलिङ्गः वाजी दन्तोऽस्य । बहुव्रीहिः समासः अकारान्तः