वृषः

सुधाव्याख्या

वर्षति मधु । ‘वृषु सेचने' (भ्वा० प० से०) । 'इगुपध-' (३.१.१३५) इति कः । ‘वृषः स्याद्वासके धर्मे सौरभेये च शुक्रले' इति मूर्धन्यान्ते विश्वः । यत्तु - वृष्यते पीयते । वृष पाने' । ‘घर्ञथे कः' (वा० ३.३.५८) - इति मुकुटनोक्तम् । तन्न । धातुपाठेऽदर्शनात् । परिगणनाच्च ॥