सिंही

सुधाव्याख्या

हिनस्ति । ‘हिसि हिंसायाम्' (रु० प० से०) । पचाद्यच् (३.१.१३४) । पषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । ‘सिंही तु कण्टकार्या स्यात् (वार्ताकौ वासकेऽपि च' इति मेदिनी) । ‘सिंही स्वर्भानुमातरि । वासाबृहत्यो: क्षुद्रायाम्' (इति हैमः) ॥