अटरुषः

सुधाव्याख्या

अटान् गच्छतो रोषति । ‘रुष हिंसायाम्' (स्वा० प० से०) । मूलविभुजादिः (वा० ३.२.५) । अटै रूषति । ‘रूष मिश्रणे' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) के दीर्घोकारवानपि । 'वैद्यमाताटरूषकः । सिंहास्यो वाजिदन्तकः' इति रभसः । ‘वृषो वासाटरूषकः' इति माधवः ॥