वाशिका

सुधाव्याख्या

वाश्यते । ‘वाशृ शब्दे' (दि० आ० से०) । ‘गुरोश' (३.३.१०३) इत्यः । स्वार्थे कन् । यद्वा उश्यते । ‘वश कान्तौ' (अ० प० से०) । ‘संज्ञायाम्' (३.३.१०९) इति ण्वुल् ॥ दन्त्यान्तोऽपि । वासयति । पचाद्यच् (३.१.१३४) । ‘वासो गृहेऽप्यवस्थाने वासा स्यादटरूषके इति रुद्रः ॥