अमरकोशः


श्लोकः

अटव्यरण्यं विपिनं गहनं काननं वनम् । महारण्यमरण्यानी गृहारामास्तु निष्कुटा: ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अटवी अटवी स्त्रीलिङ्गः अटन्त्यत्र । ङीष् स्त्रीप्रत्ययः ईकारान्तः
2 अरण्य अरण्यम् नपुंसकलिङ्गः अर्यते । अन्य उणादिः अकारान्तः
3 विपिन विपिनम् नपुंसकलिङ्गः वेपन्तेऽत्र । इनन् उणादिः अकारान्तः
4 गहन गहनम् नपुंसकलिङ्गः गाह्यते । युच् उणादिः अकारान्तः
5 कानन काननम् नपुंसकलिङ्गः कानयति दीपयति स्मरादि युच् उणादिः अकारान्तः
6 वन वनम् नपुंसकलिङ्गः वन्यते । अच् कृत् अकारान्तः
7 महारण्य महारण्यम् नपुंसकलिङ्गः महच्च तदरण्यं च । तत्पुरुषः समासः अकारान्तः
8 अरण्यानी अरण्यानी स्त्रीलिङ्गः महदरण्यम् । ङीष् ईकारान्तः
9 गृहाराम गृहारामाः पुंलिङ्गः गृहस्यारामा: ॥ तत्पुरुषः समासः अकारान्तः
10 निष्कुट निष्कुटाः पुंलिङ्गः कुटाद्गृहान्निष्क्रन्ताः । तत्पुरुषः समासः अकारान्तः