गहनम्

सुधाव्याख्या

गाह्यते । ‘गाहू विलोडने' (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि' (उ २.७८) इति युच् । ‘कृच्छ्रगहनयो:’ (७.२.२२) इति निर्देशाद्ध्रस्वः । ‘गहनं वनदुःखयोः । गहरे कलिले चापि’ इति हैमः ।