काननम्

सुधाव्याख्या

कानयति दीपयति स्मरादि ‘कनी दीप्तिकान्तिगतिषु’ (भ्वा० प० से०) । युच् (उ २.७८) । ल्युः (३.१.१३४) वा । 'कं जलम् अननं जीवनमस्य' इति वा । 'काननं तु ब्रह्मास्ये विपिने गृहे इति हैमः ॥