अटवी

सुधाव्याख्या

अटवीति । अटन्त्यत्र । ‘अट गतौ’ (भ्वा० प० से०) । ‘पद्याटिभ्यामविः’ । ‘कृदिकारात्-' (ग ४.१.४५) इति ङीष् । यत्तु मुकुटः - अटा वयः पक्षिणोऽत्र । पूर्ववन्ङीष् । संज्ञाशब्दत्वात् ‘अनुपसर्जनात्’इति स्त्रीप्रत्ययस्य न निषेधः – इत्याह । तन्न । अटविशब्दस्य कृदन्तत्वाभावात् । ’संज्ञाशब्दत्वात्’इति हेतोरप्रयोजकत्वात् समुदायस्यानुपसर्जनत्वाच्च ।