वनम्

सुधाव्याख्या

वनति । 'वन सम्भक्तौ’(भ्वा० प० से०) । पचाद्यच् (३.१.१३४) यत्तु - वन्यते । अच् - इति मुकुटः । तन्न । कर्मणि पचाद्यचोऽसम्भवात् । ’वनं नपुंसकं नीरे निवासालयकानने’।