अमरकोशः


श्लोकः

वास्तुकं शाकभेदाः स्युः दूर्वा तू शतपर्विका । सहस्रवीर्याभार्गव्यौ रुहानन्ताऽथ सा सिता ॥ १५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वास्तुक वास्तुकम् नपुंसकलिङ्गः वास्तौ भवम् । ऊक उणादिः अकारान्तः
2 दूर्वा दूर्वा स्त्रीलिङ्गः दूर्वति । अच् कृत् आकारान्तः
3 शतपर्विका शतपर्विका स्त्रीलिङ्गः शतं पर्वाण्यस्याः । बहुव्रीहिः समासः आकारान्तः
4 सहस्रवीर्या सहस्रवीर्या स्त्रीलिङ्गः सहस्रं वीर्याण्यस्याः ॥ बहुव्रीहिः समासः आकारान्तः
5 भार्गवी भार्गवी स्त्रीलिङ्गः भृगोरियम् । अण् तद्धितः ईकारान्तः
6 रुहा रुहा स्त्रीलिङ्गः छिन्नापि रोहति । कृत् आकारान्तः
7 अनन्ता अनन्ता स्त्रीलिङ्गः न अन्तो यस्याः । तत्पुरुषः समासः आकारान्तः
8 सिता सिता स्त्रीलिङ्गः आकारान्तः