अनन्ता

सुधाव्याख्या

न अन्तो यस्याः । 'अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभापथ्यापार्वत्यामलकीषु च । विश्वम्भरागुडूच्यो: स्यादनन्तं सुरवर्त्मनि । अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु' (इति मेदिनी) ॥