शतपर्विका

सुधाव्याख्या

शतं पर्वाण्यस्याः । ‘शेषात्' (५.४.१५४) इति कप् । शतं पर्वति । ‘पर्व पूरणे' (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । ‘शतपर्विका तु दूर्वायां वचायामपि योषिति' (इति मेदिनी) ॥