वास्तूकम्

सुधाव्याख्या

वेति । वसति देहे । चिरं गुणा वाऽस्मिन् वसन्ति । ‘वस निवासे (भ्वा० प० अ०) । ‘उलूकादयश्च' (उ० ४.४१) इति साधु ॥ वास्तौ भवम् । अध्यात्मादिठञ् (वा० ४.३.६०) । इसुसुक्-' (७.३.५१) इति कः । एवं (वास्तुकम्) ह्रस्वमध्यमपि ॥