अमरकोशः


श्लोकः

विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेति च । मार्कवो भृङ्गराज: स्यात्काकमाची तु वायसी ॥ १५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विश्वक्सेनप्रिया विश्वक्सेनप्रिया स्त्रीलिङ्गः विष्वक्सेनस्य प्रिया ॥ तत्पुरुषः समासः आकारान्तः
2 गृष्टि गृष्टिः स्त्रीलिङ्गः गृह्णाति । क्तिच् कृत् इकारान्तः
3 वाराही वाराही स्त्रीलिङ्गः वराहस्येयम् । अण् तद्धितः ईकारान्तः
4 बदरा बदरा स्त्रीलिङ्गः बदति । अरन् बाहुलकात् आकारान्तः
5 मार्कव मार्कवः पुंलिङ्गः मारयति । क्विप् कृत् अकारान्तः
6 भृङ्गराज भृङ्गराजः पुंलिङ्गः भृङ्ग इव राजते। अच् कृत् अकारान्तः
7 काकमाची काकमाची स्त्रीलिङ्गः काकान् मञ्चते । अण् कृत् ईकारान्तः
8 वायसी वायसी स्त्रीलिङ्गः वायसानामियम् । अण् तद्धितः ईकारान्तः