मार्कवः

सुधाव्याख्या

मार्केति । मारयति । क्विप् (३.२.१७८) । मारि केश शौक्ल्यनाशने कूयते । ‘कुङ् शब्दे' (भ्वा० आ० अ०) । ‘ॠदोरप्’(३.३.५७) ॥


प्रक्रिया

धातुः - मृङ् प्राणत्यागे , कुङ् शब्दे


मृङ् प्राणत्यागे
मृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृ + णिच् - हेतुमति च 3.1.26
मृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मार् + इ - अचो ञ्णिति 7.2.115
मार् + इ + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
मार् + क्विप् - णेरनिटि 6.4.51
मार् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, वेरपृक्तस्य 6.1.67, तस्य लोपः 1.3.9
कुङ् शब्दे
कु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मार् + सु + कु + अप् - ऋदोरप्‌ 3.3.57, उपपदमतिङ् 2.2.19
मार् + कु + अप् - सुपो धातुप्रातिपदिकयोः 2.4.71
मार् + कु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मार् + को + अ - सार्वधातुकार्धधातुकयोः 7.3.84
मार् + कव् + अ - एचोऽयवायावः 6.1.78
मार्कव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मार्कव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मार्कव + रु - ससजुषो रुः 8.2.66
मार्कव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मार्कवः - खरवसानयोर्विसर्जनीयः 8.3.15