भृङ्गराजः

सुधाव्याख्या

‘भृङ्ग इव राजते। ‘राज दीप्तौ (भ्वा० उ० से०)। अच् (३.१.१३४)। (‘अथ भङ्गराज उक्तः पक्षिविशेषे च मार्कवे भ्रमरे' इति मेदिनी) । ‘भृङ्गरजः' इति पाठे भृङ्ग इव रजोऽस्य । सान्तोऽदन्तोऽपि । रजशब्दस्य द्वैविध्यात् । ‘स्यान्यार्कवो भृङ्गरजः भृङ्गराजः सुजा गरः' इति रभसात् ॥