बदरा

सुधाव्याख्या

बदति । ‘बद स्थैर्ये' (भ्वा० प० से०) । बाहुलकादरन् ‘ब(व)दरा गृष्टिकार्पास्योरेलापर्ण्यां स्त्रियां, पुमान् । कर्पासस्यास्थ्नि, बदरी कोले क्लीबं तु तत्फले' (इति मेदिनी) ॥