गृष्टिः

सुधाव्याख्या

गृह्णाति । क्तिच् (३.३.१७४) । पृषोदरादिः (६.३.१०९) । यत्तु–‘गर्षति | हिनस्ति रोगम्’ ‘गृषु हिंसायाम्' । क्तिन् (३.३.९४)-इति व्याख्यातं मुकुटेन । तन्न । उक्तधातोरदर्शनात् । कर्तरि क्तिनोऽसम्भवाच्च । ‘अथ गृष्टिः सकृत्सूतगवीबदरयोः स्त्रियाम्' । (इति मेदिनी) ॥ ‘घृष्टिः' इति पाठान्तरम् । घर्षति । ‘घृषु संघर्षे (भ्वा० प० से०) । क्तिच् (३.३.१७४) । ‘घृष्टिः स्त्री घर्षणस्पर्धाविष्णुक्रान्तासु ना किरौ' (इति मेदिनी) ।