अमरकोशः


श्लोकः

अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका । मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अजमोदा अजमोदा स्त्रीलिङ्गः अजं मोदयति । अण् कृत् आकारान्तः
2 उग्रगन्धा उग्रगन्धा स्त्रीलिङ्गः उग्रो गन्धोऽस्याः । बहुव्रीहिः समासः आकारान्तः
3 ब्रह्मदर्भा ब्रह्मदर्भा स्त्रीलिङ्गः ब्रह्मणा दृभ्यते । तत्पुरुषः समासः आकारान्तः
4 यवानिका यवानिका स्त्रीलिङ्गः दुष्टो यवः । आनुक् तद्धितः आकारान्तः
5 पुष्कर पुष्करम् नपुंसकलिङ्गः पुष्णाति, पुष्यति वा । करन् उणादिः अकारान्तः
6 काश्मीर काश्मीरम् नपुंसकलिङ्गः कश्मीरेषु भवम् । अण् तद्धितः अकारान्तः
7 पद्मपत्र पद्मपत्रम् नपुंसकलिङ्गः पद्मस्येव पत्रमस्य ॥ बहुव्रीहिः समासः अकारान्तः