अजमोदा

सुधाव्याख्या

अजेति । अजं मोदयति । ‘मुद हर्षे' (भ्वा० आ० से०) ण्यन्तः । ‘कर्मण्यण्' (३.२.१) । अजादित्वात् (४.१.४) टाप् । अजेन मोदते मोद्यते, वा । पचाद्यच् (३.१.१३४) । घञ् (३.३.१८) वा ॥


प्रक्रिया

धातुः - मुदँ हर्षे


मुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुद् + णिच् - हेतुमति च 3.1.26
मुद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मोद् + इ - पुगन्तलघूपधस्य च 7.3.86
अज + अम् + मोद् + इ + अण् - उपपदमतिङ् 2.2.19, कर्मण्यण् 3.2.1
अज + मोद् + इ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
अजमोद् + अण् - णेरनिटि 6.4.51
अजमोद् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अजमोद + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अजमोद + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अजमोदा - अकः सवर्णे दीर्घः 6.1.101
अजमोदा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अजमोदा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अजमोदा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68