पुष्करम्

सुधाव्याख्या

मूल इति । पौष्करे मूले, इत्यन्वयः । पुष्णाति, पुष्यति वा । ‘पुष पुष्टौ' (दि० प० अ०, क्र्या० प० से०) । ‘पुष: कित्’ (उ० ४.४) इति करन् । ‘पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । ओषधिद्वीपविहगतीर्थरागोरगान्तरे । पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च’ (इति विश्व: च ॥