ब्रह्मदर्भा

सुधाव्याख्या

ब्रह्मणा दृभ्यते । ‘दृभि ग्रन्थे' (तु० प० से०) । घञ् (३.३.१९) । ‘कर्तृकरणे कृता-' (२.१.३२) इति समासः ॥


प्रक्रिया

धातुः - दृभीँ ग्रन्थे


दृभ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दृभ् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
दृभ् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दर्भ - पुगन्तलघूपधस्य च 7.3.86
ब्रह्मन् + टा + दर्भ - कर्तृकरणे कृता बहुलम्‌ 2.1.32
ब्रह्मन् + दर्भ - सुपो धातुप्रातिपदिकयोः 2.4.71
ब्रह्म + दर्भ - नलोपः प्रातिपदिकान्तस्य 8.2.7
ब्रह्मदर्भ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
ब्रह्मदर्भ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ब्रह्मदर्भा - अकः सवर्णे दीर्घः 6.1.101
ब्रह्मदर्भा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ब्रह्मदर्भा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ब्रह्मदर्भा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68