यवानिका

सुधाव्याख्या

दुष्टो यवः । ‘इन्द्रवरुण-' (४.१.४९) इति ङीषानुकौ । इवार्थे (५.३.९६) स्वार्थे (५.३.७५) वा कन् ॥ (‘यमानिका' इति) समकारपाठे यमेनानिति । ‘अन प्राणने' (अ० प० से०) । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

यव + आनुक् + ङीष् - इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् 4.1.49
यव + आन् + ई - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
यवान् + ई - अकः सवर्णे दीर्घः 6.1.101
यवानी + सु + कन् - इवे प्रतिकृतौ 5.3.96
यवानी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
यवानी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
यवानि + क - केऽणः 7.4.13
यवानिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
यवानिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
यवानिका - अकः सवर्णे दीर्घः 6.1.101
यवानिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यवानिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवानिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68