अमरकोशः


श्लोकः

वायसोली स्वादुरसा वयस्थाथ मकूलकः । निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वायसोली वायसोली स्त्रीलिङ्गः वायसान् ओलण्डति । तत्पुरुषः समासः ईकारान्तः
2 स्वादुरसा स्वादुरसा स्त्रीलिङ्गः स्वादू रसोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 वयस्था वयस्था स्त्रीलिङ्गः वयसि स्थीयतेऽनया । कृत् आकारान्तः
4 मकूलक मकूलकः पुंलिङ्गः मङ्कते । ऊलच् उणादिः अकारान्तः
5 निकुम्भ निकुम्भः पुंलिङ्गः कुं भूमिं बिभर्ति । खच् कृत् अकारान्तः
6 दन्तिका दन्तिका स्त्रीलिङ्गः दाम्यति । तन् उणादिः आकारान्तः
7 प्रत्यक्श्रेणी प्रत्यक्श्रेणी स्त्रीलिङ्गः प्रत्यञ्ची श्रेण्यस्याः । बहुव्रीहिः समासः ईकारान्तः
8 उदुम्बरपर्णी उदुम्बरपर्णी स्त्रीलिङ्गः उदुम्बरस्येव पर्णान्यस्याः । बहुव्रीहिः समासः ईकारान्तः