वायसोली

सुधाव्याख्या

वायेति । वायसान् ओलण्डति । ‘ओलडि उत्क्षेपणे' (चु० प० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । शकन्ध्वादिः (वा० ६.१.९४) ॥


प्रक्रिया

धातुः - ओलडिँ उत्क्षेपणे


ओलड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ओलन् + ड् - इदितो नुम् धातोः 7.1.58
ओलंड् - नश्चापदान्तस्य झलि 8.3.24
ओलण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
वायस + शस् + ओलण्ड् + ड - अन्येष्वपि दृश्यते 3.2.101
वायस + ओलण्ड् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
वायस + ओलण्ड् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
वायस + ओल् + अ - टेः 6.4.143
वायसोल - शकन्ध्वादिषु पररूपं वक्तव्यम् (6.1.94) । वार्तिकम् ।
वायसोल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
वायसोल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वायसोल् + ई - यस्येति च 6.4.148
वायसोली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वायसोली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वायसोली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68