मकूलकः

सुधाव्याख्या

अथेति । मङ्कते । ‘मकि मण्डने' (भ्वा० आ० से०) । पिञ्जाद्युलच् (उ० ४.९०) । स्वार्थे कन् । आगमशासनस्यानित्यत्वान्न नुम् ॥ पृषोदरादित्वात् (६.३.१०९) उत्वे ‘मुकूलकः' अपि–इत्यन्ये ॥