दन्तिका

सुधाव्याख्या

दाम्यति । दम्यते वा । ‘दमु उपशमे' (दि० प० से०) । ‘हसिमृग्रिण्-' (उ० ३.८६) इति तन् । स्वार्थे कन् (५.३.७५) । ‘दन्तोऽद्रिकटके कुञ्चे दशनेऽथौषधौ स्त्रियाम् (इति मेदिनी) ॥


प्रक्रिया

धातुः - दमुँ उपशमे


दम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दम् + तन् - हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् (३.८६) । उणादिसूत्रम् ।
दम् + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दं + त - नश्चापदान्तस्य झलि 8.3.24
दन्त - अनुस्वारस्य ययि परसवर्णः 8.4.58
दन्त + सु + कन् - संज्ञायां कन् 5.3.75
दन्त + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
दन्त + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दन्तक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
दन्तक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
दन्तका - अकः सवर्णे दीर्घः 6.1.101
दन्तिक - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
दन्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दन्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दन्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68