निकुम्भः

सुधाव्याख्या

कुं भूमिं बिभर्ति । ‘संज्ञायां भृतृ-' (३.२.४६) इति खच् । ‘खच्च डिद्वा’ (३.२.३८) । नियतः कुम्भः । ‘प्रादयो गता-' (२.२.१८) इति समासः । ‘निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ’ (इति मेदिनी) ॥


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
कु + अम् + भृ + खच् - उपपदमतिङ् 2.2.19, संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
कु + भृ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
कु + मुम् + भृ + खच् - अरुर्द्विषदजन्तस्य मुम् 6.3.67
कु + म् + भृ + खच् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुम् + भृ + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कुम् + भ् + अ - प्रियवशे वदः खच् 3.2.38, टेः 6.4.143
कुम्भ - अनुस्वारस्य ययि परसवर्णः 8.4.58
नि + कुम्भ - प्रादयो गताद्यर्थे प्रथमया (2.2.18) । वार्तिकम् ।
निकुम्भ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निकुम्भ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निकुम्भ + रु - ससजुषो रुः 8.2.66
निकुम्भ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निकुम्भः - खरवसानयोर्विसर्जनीयः 8.3.15