अमरकोशः


श्लोकः

भानुर्हंसः सहस्रांशुस्तपन: सविता रविः । माठर: पिङ्गलो दण्डश्चण्डांशो: पारिपार्श्वका: ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भानु भानुः पुंलिङ्गः भाति । नु उणादिः उकारान्तः
2 हंस हंसः पुंलिङ्गः हन्ति । उणादिः अकारान्तः
3 सहस्रांशु सहस्रांशुः पुंलिङ्गः सहस्रमंशवो यस्या । बहुव्रीहिः समासः उकारान्तः
4 तपन तपनः पुंलिङ्गः तपति । ल्यु कृत् अकारान्तः
5 सवितृ सविता पुंलिङ्गः सुवति । तृच् कृत् ऋकारान्तः
6 रवि रविः पुंलिङ्गः रूयते, स्तूयते, रवते, वा । उणादिः इकारान्तः
7 माठर माठरः पुंलिङ्गः मनुते मठरः । स एव माठरः । अर उणादिः अकारान्तः
8 पिङ्गल पिङ्गलः पुंलिङ्गः पिङ्गलो वर्णोऽस्यास्ति । अच् तद्धितः अकारान्तः
9 दण्ड दण्डः पुंलिङ्गः दण्डोऽस्यास्ति । अच् तद्धितः अकारान्तः
10 पारिपार्श्विक पारिपार्श्विकः पुंलिङ्गः पार्श्वे इति परिपार्श्वम् । परिपार्श्वं वर्तते । ठक् तद्धितः अकारान्तः