पारिपार्श्विकः

सुधाव्याख्या

पार्श्वे इति परिपार्श्वम् । विभक्त्यर्थेऽव्ययीभावः (२.१.६) । परिपार्श्वं वर्तते, इत्यर्थे 'परिमुखं च' (४.४.२९) इति चकाराट्ठक् ।


प्रक्रिया

पार्श्वे इति परिपार्श्वम् - अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु 2.1.6
परिपार्श्व सु ठक् - परिमुखं च 4.4.29
परिपार्श्व + ठक् - सुपो धातुप्रातिपदिकयोः 2.4.71
परिपार्श्व + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
परिपार्श्व + इक - ठस्येकः 7.3.50
परिपार्श्व् + इक - यस्येति च 6.4.148
पारिपार्श्वक - किति च 7.2.118
पारिपार्श्वक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पारिपार्श्वक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारिपार्श्वक + रु - ससजुषो रुः 8.2.66
पारिपार्श्वक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पारिपार्श्वकः - खरवसानयोर्विसर्जनीयः 8.3.15