सविता

सुधाव्याख्या

सुवति । ‘षू प्रेरणे' (तु० प० से०) । तृच् (३.१.१३३) । यत्तु-सूयते, सूते-इति स्वामिमुकुटाभ्यामुक्तम् । तन्न । ‘स्वरतिसूतिसूयति-’ (७.२.४४) इतीड्विकल्पात्पक्षे ‘सोता' इति रूपप्रसङ्गात् । उक्तधात्वोरर्थासंगतेश्च ।