माठरः

सुधाव्याख्या

मनुते मठरः । स एव माठरः । ‘जनेररष्ठश्च ' (उ० ५.३८) इत्यनुवर्तमाने ‘वचिमनिभ्यां चिच्च' (उ० ५.३९) इत्यरप्रत्ययः ठश्चान्तादेशः । ततः प्रज्ञाद्यण् (५.४.३८) मठति । ‘मठ मदनिवासयोः’ (भ्वा० प० से०) । बाहुलकादरच् । मठरस्यापत्यमिति वा । ऋष्यण् (४.१.११४) मठन्त्यनेन मठः । ‘पुंसि-’ (३.३.११८) इति घः । मठं राति । ‘रा दाने’ (अ० प० से०) । कः (३.२.३) ('माठरो व्यासवियोः । सूर्यानुगे’)